बाहुल्येन पृच्छ्यमानाः प्रश्नाः
प्रथमः प्रश्नः – कीदृशो भवत्युदरक्षयः ?
उत्तरम् – अद्य नैके रोगिणो विश्वस्मिन्नपि विश्वे यक्ष्मणा क्षयरोगेण वा, पीडिता दृश्यन्ते | एवं खलु नास्ति, यदनेन रोगेण फुप्फुसा एव संक्रान्ताः स्युः| अनेन तु शरीरस्य यत्किमप्यङ्गं संक्रम्यते | यदानेन क्षयेणोदरगुहाङ्गानि संक्रम्यन्ते, तदायं रोग उदरक्षय, उदरयक्ष्मा वेत्युच्यते |सामान्येन मूत्रवहसंस्थानं प्रजननसंस्थानं च भिन्ने स्तः, किन्तूदरक्षयरोगेण तु मूत्रवहसंस्थाने प्रजननसंस्थानेऽपि क्षयस्य संक्रमणं स्यादिति संभवन्ति|
द्वितीयः प्रश्नः – किमन्ष्वङ्गेषु यः क्षयः, तेन समो भवत्युदरक्षयः ?
उत्तरम् – एवं खलु नास्ति|उदरक्षय इत्यस्ति कश्चन पारिभाषिकः शब्दः| येन क्षयेण उदरावरणम्, आन्त्रम्, उदरान्तरस्थाङ्गानि, लसिकाग्रन्थिरित्यादय उदरस्यैवावयवा प्रभाविता भवन्ति, स एवोदरक्षय इत्युच्यते|
तृतीयः प्रश्नः – लोके कियती व्याप्तिर्वर्तते उदरक्षयस्य ?
उत्तरम् – सामान्येन फुप्फुसक्षयादनन्तरं बाहुल्येन दृश्यते यः क्षयः, स उदरक्षय एव | फुप्फुसक्षयं विहाय येऽपि क्षयाः सन्ति, तेषां मध्ये प्रतिशतं दशाधिकरोगिणो भवन्त्युदरक्षयस्य |सामान्येन क्षयरोगिषु सर्वाधिका रोगिणः भवन्ति फुप्फुसक्षयस्य | ततोऽल्पतरा भवन्ति लसिकाग्रन्थिक्षयस्य | ततोऽप्यल्पतरा भवन्त्युदरक्षयस्य|
चतुर्थः प्रश्नः – किंलक्षणो भवत्युदरक्षयः|
उत्तरम् – अनेकानि भवन्ति लक्षणान्युदरक्षयस्य | तेषां मध्ये आन्त्रक्षये प्राधान्येन भवन्त्युदरशूलम् , अतिसारः, गुदरक्तस्रावः, आन्त्रावरोधः, क्षुन्नाशः, शरीरापचयः, ज्वरश्च | उदरावरणक्षयस्य लक्षणानि भवन्ति – उदरगुहायां द्रवोत्पत्तावुदरवृद्धिः, शूलं , ज्वरः, शरीरापचय इत्यादीनि| उदराङ्गक्षयस्य लक्षणानि भवन्ति – यकृति, अग्नाशये, पित्ताशये, प्लीहायां विविधा विकाराः | कदाचिदुदरक्षयस्य लक्षणान्यत्यल्पानि भवन्ति, तानि चान्यस्य व्याधेर्निदानावसरे आविर्भवन्ति |
पञ्चमः प्रश्नः – ममोदरे वर्तते यः शूलः, सोऽस्ति किमुदरक्षयः ?
उत्तरम् – उदरशूलस्य तु संभवन्त्यनेके हेतवः | यदि उदरशूलोऽस्ति, तदा वैद्यस्य समीपं गत्वा तस्य निदानं कृतं स्यात् |
षष्ठः प्रश्नः – किमुदरक्षयश्चिकित्सया साध्यः ?
उत्तरम् – अन्यक्षयवदुदरक्षयोऽप्यस्ति चिकित्सासाध्यः| यावन्न स्यादयं व्याधिर्जीर्णस्तावदस्य परिज्ञाने सत्यवश्यमेवास्य व्याधेरुपद्रवा निषेद्धुं शक्यन्ते |
सप्तमः प्रश्नः – अस्योदरक्षयस्य चिकित्सा कियन्तं कालमपेक्षते ?
उत्तरम् – सामान्येन षड्भिर्मासैरस्य चिकित्सा संभवति |किन्तु व्याधेर्लक्षणानुसारेण कदाचिदधिकोऽपि कालोऽपेक्षितः स्यात्| भारतशासनेन विभिन्नेषु “डाट्सकेन्द्रेषु” क्षयरोगिणां कृते चिकित्सा निःशुल्कं प्रदीयते |
अष्ठमः प्रश्नः – उदरक्षयस्य निदानाय किं किं परीक्षणमेपक्षते ?
उत्तरम् – उदरक्षयस्य निदानायापेक्षितानि परीक्षणानि सन्ति – प्रतिबिम्बीयपरीक्षणं (imaging scan), पराध्वनिचित्राङ्कनम् (ultrasound), संगणकीयचित्राङ्कनम् (computed tomographic scan) च|एतदनन्तरम् व्याधेर्निश्चितनिदानायोतकपरीक्षणमप्यावश्यकम् |यस्मिन् भवन्ति – गुहान्तरदर्शनं (endoscopy), बृहदान्त्रदर्शनं (colonoscopy), उदरस्थद्रवनिष्कासनं (fluid aspiration from abdomen) च|एतदनुसारेणोतकीयपरीक्षणं (histological test), सूक्ष्मजीवीयपरीक्षणं (microbiological test), च विधाय व्याधेरन्तिमं निदानं जायते|
नवमः प्रश्नः – किंलक्षणो भवत्युदरावरणक्षयः |
उत्तरम् – उदरस्याङ्गानि येनाच्छाद्यन्ते, तद्भवत्युदरावरणम् |उदरक्षयेणेदमुदरावरणं क्षीयते| तेन च जायत उदरे द्रवः |
दशमः प्रश्नः – मदीयोदरे द्रवोऽस्तीत्युच्यते चिकित्सकैः| किमयं द्रव उदरक्षयजन्यो भवेत् ?
उत्तरम् – उदरक्षये सत्युदरे द्रवो जायत इति तूदरक्षयस्य सामान्यलक्षणं भवत्येव, किन्तु यकृद्व्याधिरर्बुदरोगो, ह्रद्रोगो, वृक्करोगो, इत्येतेऽपि भवन्ति हेतव उदरद्रवस्य |अत उदरद्रवस्य परीक्षणेनैव रोगस्य निदानं कर्तुं युज्यते|
एकादशः प्रश्नः – अहमस्युदरक्षयेण पीडितः |किं मत्कृते एच.आई.वी. परीक्षणं वरम् ?
उत्तरम् – इदन्तु सत्यं यद् एच.आई.वी. रोगेण क्षयरोगस्य संभावना वर्धते |किन्त्वनेन रोगेण पीडिताः प्रायो बाह्यफुप्फुसीयक्षयेण ग्रस्ता भवन्ति | अतः सर्वेषां क्षयरोगिणां कृते एच.आई.वी. परीक्षणं त्वनिवार्यमेव भवति | इदं परीक्षणमस्माकं भारते एड्सनियन्त्रणकार्यक्रमेषु निःशुल्कं विधीयते |
द्वादशः प्रश्नः – किमुदरक्षयो वर्तते औपसर्गिको व्याधिः ?
उत्तरम् – उदरक्षयः प्रायेण नास्त्यौपसर्गिको व्याधिः| यद्यप्युदरक्षयेण ग्रस्तानां मध्ये प्रतिशतं दशभ्यः, त्रिंशद् वा रोगिणो भवन्ति फुप्फुसक्षयग्रस्ताः| अयं फुप्फुसक्षयस्तु भवत्यौपसर्गिकः |अस्ति फुप्फुसक्षयो न वेति निर्धारणं क्षकिरणपरीक्षणेन (chest x-ray) क्रियते |
त्रयोदशः प्रश्नः – अहं उदरक्षयस्य चिकित्सां स्वीकुर्वन्नस्मि| मत्कृते किं भवेत् पथ्यम् ?
उत्तरम् – चिकित्सकस्य परामर्शानुसारेण औषधिसेवनमावश्यकम् |यद्यौषधिसेवनेन परिलक्ष्यते कश्चन दुष्प्रभावस्तदा चिकित्सकः सूचयितव्यः| स करिष्यत्यपेक्षितमौषधिपरिवर्तनम्|चिकित्साकाले पोषकाहारस्य सम्यक् सेवनमप्यावश्यकम्|
चतुर्दशः प्रश्नः – उदरक्षयग्रस्तेन मया कीदृश आहारः स्वीकर्तव्यः ?
उत्तरम् – क्षयरोगिणा पोषकाहारस्य सेवनमत्यावश्यकं वर्तते |तत्रापि प्रोटीनस्य भवेत् प्राधान्यमित्यपेक्ष्यते| उदरक्षये गृहीताहारस्य सम्यक् परिणमनं न जायते, अतोऽयमेवाहारो भवेदुदरक्षयरोगिणामपि कृते पथ्यः|
पञ्चदशः प्रश्नः – अहमस्म्युदरक्षयग्रस्तः| किं मया तन्तुमय आहारः (fibre diet) स्वीकर्तव्यः?
उत्तरम् – केषाञ्चनोदरक्षयरोगिणामान्त्रं ग्रन्थीनामुद्भवेन संकुचति |क्षयप्रतिरोधिचिकित्सयैवेमे ग्रन्थयोऽपि शिथिलीभवन्ति| कदाचिद् यन्त्रेण गुहान्तरदर्शनं (endoscopy) विधाय वायुगोलकेन (balloon) आन्त्रं विस्तार्यते, येन ग्रन्थयो नश्यन्ति | आन्त्रसंकोचे क्वचित् चिकित्सकेन तन्तुमय आहारो निषिध्यते |
षोडशः प्रश्नः – किं ममोदरक्षयचिकित्साकृते शल्यक्रियापेक्षिता ?
उत्तरम् – येषामुदरक्षयरोगिणामान्त्रविकृतिः क्षयस्य चिकित्सयान्त्रविस्तारेण वा शमं न याति, तेषां कृते शल्यक्रियापेक्ष्यते | अथ च यत्रान्त्रावरोधो भवति, आन्त्रछिद्रं भवति, आन्त्राद् रक्तस्रावो भवति, तत्रापि शल्यक्रियापेक्ष्यते|अद्यत्व उत्तमौषधीनामाविष्कारो जातः| अतः प्रायेण शल्यक्रियाया आवश्यकता न भवति |
सप्तदशः प्रश्नः – मयोदरक्षयस्य सकला चिकित्सा स्वीकृता | किमयं रोगः पुनरुद्भविष्यति ?
उत्तरम् – आम्| पूर्वक्षयरोगिणां कृतेऽस्य रोगस्य पौनःपुन्यं संभवत्येव| अत एतादृशैर्जनैर्जीवनचर्यायां वैशिष्ट्याधानं करणीयम् | यथा – आहारः पोषको भवेत्, मद्यपानस्य, धूमपानस्य च त्यागो भवेत् | शरीरे मधुमेहस्य, एच.आई.वी. रोगस्य वाविर्भावो न भवेत् | अथ च वर्जनं भवेत् तादृशस्य सर्वस्य, येन रोगस्य पुनरावृत्तिः स्यात्|
एकोनविंशः प्रश्नः – क्षयस्यौषधयः कुतः क्रेतव्याः ? “डाट्सकेन्द्रेषु” लभ्यन्ते या औषधयः, ताः भवन्ति किं समीचीनाः ?
उत्तरम् – भारते क्षयनियन्त्रणकार्यक्रमानुसारेण क्षयस्य परीक्षणं, चिकित्सा च निःशुल्कं भवति | अत्रत्या औषधयः सन्ति गुणवत्यः प्रभाववत्यश्च |
विंशः प्रश्नः – मया क्षयस्य चिकित्सा स्वीकृता |किन्तु मम चिकित्सकः शङ्कते, यदहं क्रौंसव्याधिना (Crohn’s disease) ग्रस्तोऽस्मि | इदानीं किमहं कुर्याम् ?
उत्तरम् – एको भवति क्रौंसव्याधिः (Crohn’s disease)| स चोदरक्षयेण समानलक्षण एव भवति, अत उदरक्षयस्य निदानं कठिनमेव प्रतिभाति| अस्माकं भारत उभौ बाहुल्येन भवतः, अतः कतरोऽयं रोग इति, सम्यग् निदानं कर्तुं दुष्करमेव | यद्यदुरक्षयरोगे क्रौंसरोगस्य चिकित्सा क्रियते, तदोदरक्षयरोगो वर्धते | एतावत्युदरक्षय एव चिकित्स्यो भवति, न तु क्रौंसरोगः (Crohn’s disease)| तत्रौषधीनां प्रभावः सम्यग् प्रवर्तते न वा, इति ज्ञातुं मध्ये मध्य आन्त्रदर्शनेन (colonoscopy) उदरक्षयस्य परीक्षणमवश्यमेव क्रियेत|
यद्यन्ये सन्ति प्रश्ना उदरक्षयसंबन्धिनस्तदा भवानस्मिन् संकेते प्रष्टुमर्हति__________________